बोधन-कुतूहलम्
संस्कृतमाध्यमेन शास्त्रबोधन-विषयिणी स्पर्धा
विषयः
अयि भोः अध्यापकाः!
नैकासु उच्चविद्यासंस्थासु पाठ्यविषयत्वेन संस्कृतं विद्यते इति सुविदितमेव। संस्कृतविश्वविद्यालयेतर-महाविद्यालयेषु अङ्कार्जकविषयतया संस्कृतं परिगण्यते इति छात्राः एतावत् पर्यन्तमपि संस्कृतपठने… क्षम्यतां भोः, संस्कृतरटने दत्तादराः वर्तन्ते इति जानीमः!
विषयान्तरेषु प्रासङ्गिकत्वप्रदर्शनद्वारा प्रायोगिकप्रस्तुतिद्वारा च रोचकत्वोत्पादनाय प्रयासाः प्रवर्तन्ते सततम्। संस्कृताध्यापने पाठ्यक्रमे चापि सद्यः नैकाः सुधारणाः सूचिताः शैक्षणिकमण्डलैः। परं तत्रादौ महाविद्यालयेषु संस्कृतमाध्यमेन रोचकतया संस्कृतं शास्त्रं च पाठयितुं समर्थाः सिद्धाः च शिक्षकाः सन्ति वा इति जिज्ञासवः वयं संस्कृते शास्त्रबोधनस्पर्धामेतां प्रवर्तयितुम् उत्सुकाः स्मः।
तत्रभवन्तः अत्र विषये आत्मानं परीक्षितुमिच्छुकाश्चेत् पठन्तु अग्रे ->
किं भावयेत्? –
संस्कृतमाध्यमेन रोचकतया भवतः/भवत्याः शास्त्रबोधनकौशलमत्र स्पर्धाविषयः। बोध्यविषयाः गणत्रये विभक्ताः।
प्रथमगणे बोध्यानि शास्त्राणि-
- काव्यशास्त्रम् – भरतस्य नाट्यशास्त्ररीत्या रसनिष्पत्तिः
- काव्यम् – कालिदासस्य अभिज्ञानशाकुन्तले प्रथमश्लोकं यावत् चतुर्थोsङ्कः
- व्याकरणम् – पाणिनेः अष्टाध्याय्याः 1.1.9-सूत्रम्
- वेदान्तः – ईशावास्योपनिषदः प्रथममन्त्रः (शङ्कराचार्य-रामानुजाचार्य-मध्वाचार्यभाष्याश्रितः)
- ज्योतिषम् – वराहमिहिरस्य बृहज्जातकात् प्रथमाध्याये आदितः पञ्चश्लोकाः
- न्यायशास्त्रम् – गोतमस्य न्यायसूत्रतः 1.1.1-सूत्रम्
- पूर्वमीमांसा – लौगाक्षिभास्करकृतात् अर्थसङ्ग्रहात् धर्मलक्षणं वेदानां धर्मप्रतिपादकत्वं च
द्वितीयगणे बोध्यानि शास्त्राणि –
- साङ्ख्य-योगौ – ईश्वरकृष्णस्य साङ्ख्यकारिकायाः आदिमश्लोकत्रयम्/ पतञ्जलियोगसूत्रस्य प्रथमसूत्रम्
- अर्थशास्त्रम् – कौटिल्यार्थ शास्त्रात् वृद्धसंयोगः इन्द्रियजयश्च
- आयुर्वेदः – चरकसंहितायाः सूत्रस्थानात् षष्टाध्याये 1 – 15-श्लोकाः
- धर्मशास्त्रम् – मनुस्मृत्याः चतुर्थाध्याये 1 – 20-श्लोकाः
- वेदभाष्यम् – पुरुषसूक्तस्य आद्यपञ्च ऋचां सायणभाष्यम्
- आगमः – पौष्करसंहितायाः द्वितीयाध्यायात् 1 – 15-श्लोकाः
तृतीयगणे बोध्याः विषयाः –
- भारतीय-शिक्षण-पद्धतिः – भारतीयपरम्परायां शिक्षणपद्धतयः
- भारतीय-संशोधन-पद्धतिः – संशोधनविषयचयने अधिकरणविचारः
- भारतीय-जीवन-तत्त्वम् – वर्णव्यवस्थामधिकृत्य भारतीयविचारः
- वैदिकाचरणानां महत्त्वम् – यज्ञस्य महत्त्वं सार्थक्यं च
- भारतीय-ज्ञान/विचार-परम्परा – भारतीयज्ञानपरम्परायाः संवर्धने वादस्य पात्रत्वम्
- त्रिवर्गोपजीवकशास्त्रम् – स्पर्धार्थ्यैच्छिकः विषयः
केन भावयेत्? –
भवान्/भवती –
- निर्दिष्टेषु पाठ्यांशेषु स्वेच्छया विषयं चिनोतु
- बोधनाय पुस्तकं, श्वेत/कृष्णफलकं, PPT, चित्राणि इत्याद्युपकरणानि स्वेच्छया प्रयोक्तुमर्हति
- 20 – 40 निमेषात्मकस्य भवद्बोधनस्य चलचित्राङ्कनं कृत्वा YouTube मध्ये आरोहयित्वा अस्मभ्यं तत्सङ्केतं प्रेषयतु
- चलचित्रेण सह अधोनिर्दिष्टानि संसाधनान्यपि योजितुमर्हति –
- बोध-टिप्पण्यः (छात्रबोधनसामग्रीत्वेन निर्मिताः)
- परीक्षाप्रश्नाः (20 अङ्कात्मकाः)
- निबन्धप्रकल्पप्रश्नाः (5)
- सन्दर्भग्रन्थादयः
- अतिरिक्तवाचनाय सूचनाः
- PPT, चित्राणि, दर्शनफलकानि इत्यादीनि
कथं भावयेत्?
स्पर्धायां भागग्रहणाय –
- – 255 रूप्यकाणि शुल्कम् अर्पयित्वा पञ्जीकरणाय सङ्केतः अयम्
- अथवा https://rzp.io/l/8nhVqp6 – इति सङ्केते अपि शुल्कार्पणं पञ्जीकरणं च शक्यम्
- मे-मासस्य 31, 2019 यावत् अर्पयित्वा info.mitsvs@gmail.com इति सङकेते अस्मभ्यं सूचनीयम्
- जून् 17, 2019 यावत् भवद्बोधनस्य चलचित्रस्य YouTube सङ्केतम् info.mitsvs@gmail.com इति अस्मत्सङ्केते प्रेषणीयम्
फलश्रुतिः –
अस्मत्परीक्षकगणः चलचित्रदर्शनेन भवद्बोधनस्य मूल्याङ्कनं करिष्यति। ततः जुलै 16, 2019 तमे दिनाङ्के गुरुपूर्णिमादिने परीक्षणफलम् उद्घोषयिष्यते।
स्पर्धाविजेतृभ्यः सङ्कल्पित-पारितोषकानां विवरणम् –
पारितोषकम् | प्रथमगणस्पर्धायां | द्वितीयगणस्पर्धायां | तृतीयगणस्पर्धायां |
प्रथमस्थानप्राप्तौ | Rs. 5000 | Rs. 10000 | Rs. 15000 |
द्वितीयस्थानप्राप्तौ | Rs. 3000 | Rs. 7000 | Rs. 12000 |
तृतीयस्थानप्राप्तौ | Rs. 2000 | Rs. 5000 | Rs. 10000 |
*सूचना – गणे न्यूनातिन्यूनं पञ्च प्रवेष्टारः सन्ति चेदेव तृतीयस्थानं यावत् फलघोषणा भविता। प्रवेष्टॄणां सङ्ख्या यदि क्वचिद्गणे त्रीणि न स्यात् तर्हि तस्मिन् गणे स्पर्धा न प्रवर्तयिष्यते।
अधिकारी/अधिकारिणी
न कापि औपचारिकी पदवी किञ्चित् शिक्षणं वा अत्र भागग्रहणे पात्रताकल्पकम्। भवतः/भवत्याः अष्टादशोत्तरवर्षीयत्वं संस्कृतानुरागित्वं शास्त्रानुरागित्वं तथा रोचकतया तद्बोधने आत्मविश्वासयुतत्वं चैव तत्र पात्रत्वेन गृह्यन्ते।
परीक्षणबिन्दवः
- बोधविषये स्वामित्वम्
- बोधनकौशलम्
- छात्रैः संयोगः
- सङ्क्षेपणे सरलीकरणे च सामर्थ्यम्
- बोधसामग्री-संरचना
- परीक्षणकौशलम्
प्रयोजनम्
- संस्कृतमाध्यमेन शास्त्राध्यापने श्रद्धावत्त्वे सति तन्निरूपणाय इयं स्पर्धा स्ववसरः भवति
- स्पर्धायामस्यां लब्धप्रतिष्ठावत्त्वे सति उद्योगादिषु अर्हतात्वेन तदुपयोक्तुं शक्यते
- महाविद्यालयेषु संस्कृते शास्त्राध्यापनमधिकृत्य विचारार्थं प्रयोगार्थं च स्पर्धात्मकं निमित्तमिदं लभ्यते
- योग्यतासिद्धौ अस्मत्संस्थया संयुज्य online माध्यमेन बोधनाय अवकाशः लभ्यते
- संस्कृतस्य शास्त्राणां च समकालीनानां विदुषां परिचयेण महाविद्यालयेषु संस्कृतेन अध्यापनमधिकृत्य योजनाप्रयोगादिनिर्माणे साहाय्यं लभ्येत
सम्बन्धः
विषयाधिकारिणोः प्रतिपाद्य-प्रतिपादकभावः सम्बन्धः। अधिकारिप्रयोजनयोः कर्तृकर्मभावः सम्बन्धः। विषयप्रयोजनयोः प्रकल्प्यप्रकल्पकभावः सम्बन्धः।